आ॒दि॒त्यासो॒ अदि᳚तिर्मादयन्तां मि॒त्रो अ᳚र्य॒मा वरु᳚णो॒ रजि᳚ष्ठाः ।
अ॒स्माकं᳚ सन्तु॒ भुव᳚नस्य गो॒पाः पिब᳚न्तु॒ सोम॒मव᳚से नो अ॒द्य ॥
अ॒स्माकं᳚ सन्तु॒ भुव᳚नस्य गो॒पाः पिब᳚न्तु॒ सोम॒मव᳚से नो अ॒द्य ॥
पदपाठः (Word-by-word)
आ॒दि॒त्यासः᳚ । अदि᳚तिः । मा॒द॒य॒न्ता॒म् । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । रजि᳚ष्ठाः ।
अ॒स्माक᳚म् । स॒न्तु॒ । भुव᳚नस्य । गो॒पाः । पिब᳚न्तु । सोम᳚म् । अव᳚से । नः॒ । अ॒द्य ॥
अ॒स्माक᳚म् । स॒न्तु॒ । भुव᳚नस्य । गो॒पाः । पिब᳚न्तु । सोम᳚म् । अव᳚से । नः॒ । अ॒द्य ॥
सायणभाष्यम् (Sayana Commentary)
आदित्यासः आदित्यादेवाः अदितिस्तेषांमाताच यद्वा अदितिरिति देवविशेषणं अदितिः अदितयः अदीनाः रजिष्ठाः अतिशयेन ऋजवः मित्रः अर्यमा वरुणश्च एतत्संज्ञकाः मादयन्तां तृप्ताः सन्तु भुवनस्य सर्वस्य जगतः गोपाः रक्षकाः एवंभूतादेवाः अस्माकं सन्तु अस्माक- मेव रक्षकाभवंत्वित्यर्थः अद्यास्मिन् दिने नोस्माकमवसे रक्षणाय सोममस्माभिरभिषुतं पिबन्तु ॥ २ ॥