श्रवणम्

7.61.1
उद्वां॒ चक्षु᳚र्वरुण सु॒प्रती᳚कं दे॒वयो᳚रेति॒ सूर्य᳚स्तत॒न्वान् ।
अ॒भि यो विश्वा॒ भुव᳚नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि᳚केत ॥
▶ पदपाठः (Word-by-word)
उत् । वा॒म् । चक्षुः᳚ । व॒रु॒णा॒ । सु॒॑प्रती᳚कम् । दे॒वयोः᳚ । ए॒ति॒ । सूर्यः᳚ । त॒त॒न्वान् ।
अ॒भि । यः । विश्वा᳚ । भुव᳚नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये᳚षु । आ । चि॒के॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुणा मित्रावरुणौ देवयोर्द्योतमानयोर्वां युवयोश्चक्षुः प्रकाशकं तेजः सुप्रतीकं शोभनरूपं एवं रूपः सूर्यः ततन्वान् तेजोविस्तारयन्नु- देति उद्गच्छति अथोदितोयोदेवोविश्वा सर्वाणि भुवनानि भूतजातानि अभिचष्टे अभिपश्यति सदेवोमर्त्येषु प्रवृत्तं मन्युं स्तोत्रं कर्म वा आचिकेत आजानाति ॥ १ ॥