श्रवणम्

7.35.5
शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शम॒न्तरि᳚क्षं दृ॒शये᳚ नो अस्तु ।
शं न॒ ओष᳚धीर्व॒निनो᳚ भवन्तु॒ शं नो॒ रज᳚स॒स्पति᳚रस्तु जि॒ष्णुः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । द्यावा᳚पृथि॒वी इति᳚ । पू॒र्व॑हू᳚तौ । शम् । अ॒न्तरि᳚क्षम् । दृ॒शये᳚ । नः॒ । अ॒स्तु॒ ।
शम् । नः॒ । ओष᳚धीः । व॒निनः᳚ । भ॒व॒न्तु॒ । शम् । नः॒ । रज᳚सः । पतिः᳚ । अ॒स्तु॒ । जि॒ष्णुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं शं शांत्यै द्यावापृथिवी द्यावापृथिव्यौ पूर्वहूतौ प्रथमाह्वाने भवतां अन्तरिक्षमपि नोस्माकं दृशये दर्शनाय शमस्तु नोस्माकं शंशांत्यै ओषधीरोषधयोपि भवन्तु वनिनोवृक्षाश्च शं भवन्तु जिष्णुः जयशीलो रजसोलोकस्य पतिरिन्दोपि नोस्माकं शं शांत्यै अस्तु ॥ ५ ॥