श्रवणम्

7.35.13
शं नो᳚ अ॒ज एक᳚पाद्दे॒वो अ᳚स्तु॒ शं नो॑हि᳚र्बु॒ध्न्य१॒᳚ः शं स᳚मु॒द्रः ।
शं नो᳚ अ॒पां नपा᳚त्पे॒रुर᳚स्तु॒ शं न॒ः पृश्नि᳚र्भवतु दे॒वगो᳚पा ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । अ॒जः । एक᳚॑पात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । शम् । स॒मु॒द्रः ।
शम् । नः॒ । अ॒पाम् । नपा᳚त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः᳚ । भ॒व॒तु॒ । दे॒व॑गो᳚पा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजएकपात् अजएकपान्नामधेयो देवोनोस्माकं शं शांत्यै अस्तु अहिर्बुध्नयश्च नोस्माकं शं शांत्यै अस्तु समुद्रोपि नः शं शांत्यै अस्तु पेरुः उपद्रवेभ्यः पारयिता अपांनपात् अपांनपान्नामधेयोपि देवोनोस्माकं शं शांत्यै अस्तु देवगोपा देवागोपायितारो यस्यांसापृश्निर्मरुतां माता नोस्माकं शं शांत्यै भवतु ॥ १३ ॥