श्रवणम्

7.35.15
ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज᳚त्रा अ॒मृता᳚ ऋत॒ज्ञाः ।
ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ये । दे॒वाना᳚म् । य॒ज्ञियाः᳚ । य॒ज्ञिया᳚नाम् । मनोः᳚ । यज᳚त्राः । अ॒मृताः᳚ । ऋ॒त॒॑ज्ञाः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒॑गा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियानां यजनीयानां देवानामपि यज्ञियायजनीया मनोः प्रजापतेश्च यजत्रायजनीया अमृता मरणरहिता ऋतज्ञाः सत्यज्ञा ये देवाः सन्ति ते सर्वे उरुगायं बहुकीर्तिं पुत्रमद्य नोस्मभ्यं रासंतां प्रयच्छन्तु प्रसिद्धएवोत्तमः पादः ॥ १५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके तृतीयोध्यायः समाप्तः ॥ ३ ॥