श्रवणम्

7.35.1 समानपद
शं न᳚ इन्द्रा॒ग्नी भ᳚वता॒मवो᳚भि॒ः शं न॒ इन्द्रा॒वरु᳚णा रा॒तह᳚व्या ।
शमिन्द्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा᳚पू॒षणा॒ वाज᳚सातौ ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । इ॒न्द्रा॒ग्नी इति᳚ । भ॒व॒ता॒म् । अवः᳚॑भिः । शम् । नः॒ । इन्द्रा॒वरु᳚णा । रा॒त॑ह᳚व्या ।
शम् । इन्द्रा॒सोमा᳚ । सु॒वि॒ताय᳚ । शम् । योः । शम् । नः॒ । इन्द्रा᳚पू॒षणा᳚ । वाज᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकमस्मभ्यं वा इन्द्राग्नी अवोभीरक्षणैः शंशांत्यै भवताम् । राहतव्या रातहव्यौ यजमानैर्दत्तहविष्काविन्द्रावरुणेन्द्रावरुणावपि नोस्मभ्यं शंशांत्यै भवताम् । इन्द्रासोमा इन्द्रासोमावपि नः शं शांत्यै सुविताय कल्याणाय च भवतां शं शांत्यै सुखाय च पुनरुक्तिरा- दरार्था अथवा शं शमनहेतुकं सुखं योः विषययोगनिमित्तं सुखमित्यपुनरुक्तिः । इन्द्रापूषणा इन्द्रापूषणावपि वाजसातौ युद्धे अन्नलाभे निमित्ते वा नः शं शांत्यै भवतामित्यर्थः ॥ १ ॥