ताव᳚दुषो॒ राधो᳚ अ॒स्मभ्यं᳚ रास्व॒ याव᳚त्स्तो॒तृभ्यो॒ अर᳚दो गृणा॒ना ।
यां त्वा᳚ ज॒ज्ञुर्वृ᳚ष॒भस्या॒ रवे᳚ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे᳚रौर्णोः ॥
यां त्वा᳚ ज॒ज्ञुर्वृ᳚ष॒भस्या॒ रवे᳚ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे᳚रौर्णोः ॥
पदपाठः (Word-by-word)
ताव᳚त् । उ॒षः॒ । राधः᳚ । अ॒स्मभ्य᳚म् । रा॒स्व॒ । याव᳚त् । स्तो॒तृ॑भ्यः᳚ । अर᳚दः । गृ॒णा॒ना ।
याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य᳚ । रवे᳚ण । वि । दृ॒ळ्हस्य᳚ । दुरः᳚ । अद्रेः᳚ । औ॒र्णोः॒ ॥
याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य᳚ । रवे᳚ण । वि । दृ॒ळ्हस्य᳚ । दुरः᳚ । अद्रेः᳚ । औ॒र्णोः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषोयावद्राधोधनं स्तोतृभ्यः पूर्वं अरदोदत्तवत्यसि तावद्राधोधनं गृणाना स्तूयमानाः अस्मभ्यमपि रास्व देहि यां त्वा त्वां वृषभस्य रवेण लुप्तोपमैषा वृषभस्येति कर्मणिष्ठी वृषभं रवेणेव त्वां प्रकाशेन जज्ञुः जानन्ति प्राणिनः । अथवा वृषभस्यप्रवृद्धस्य स्तोत्रस्य रवेण शब्देन जज्ञुः ज्ञापयन्ति दृह्ळस्य दृढस्याद्रेः दुरोद्वाराणि पणिभिर्गाः प्रवेश्य पिहितानि व्यौर्णोः विव्रतान्यकरोः ॥ ४ ॥