श्रवणम्

7.79.5
दे॒वंदे᳚वं॒ राध᳚से चो॒दय᳚न्त्यस्म॒द्र्य᳚क्सू॒नृता᳚ ई॒रय᳚न्ती ।
व्यु॒च्छन्ती᳚ नः स॒नये॒ धियो᳚ धा यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
दे॒वम्॑दे᳚वम् । राध᳚से । चो॒दय᳚न्ती । अ॒स्म॒द्र्य᳚क् । सू॒नृताः᳚ । ई॒रय᳚न्ती ।
वि॒॑उ॒च्छन्ती᳚ । नः॒ । स॒नये᳚ । धियः᳚ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवंदेवं सर्वमपिस्तोतारं राधसे धनाय चोदयन्ती प्रेरयन्ती अस्मद्मक् अस्मदभिमुखं सूनृता वचांसि ईरयन्ती प्रेरयन्ती व्युच्छन्ती व्युच्छनं कुर्वती नोस्माकं सनये दानाय धनलाभाय धियोबुद्धीः धाः धेहि शिष्टं स्पष्टम् ॥ ५ ॥

प्रतिस्तोमेभिरिति तृचात्मकं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् प्रतितृचमित्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो- विनियोगः ।