स घा᳚ नो दे॒वः स᳚वि॒ता स॒हावा सा᳚विष॒द्वसु᳚पति॒र्वसू᳚नि ।
वि॒श्रय᳚माणो अ॒मति᳚मुरू॒चीं म᳚र्त॒भोज᳚न॒मध᳚ रासते नः ॥
वि॒श्रय᳚माणो अ॒मति᳚मुरू॒चीं म᳚र्त॒भोज᳚न॒मध᳚ रासते नः ॥
पदपाठः (Word-by-word)
सः । घ॒ । नः॒ । दे॒वः । स॒वि॒ता । स॒ह॑वा᳚ । आ । सा॒वि॒ष॒त् । वसु᳚॑पतिः । वसू᳚नि ।
वि॒॑श्रय᳚माणः । अ॒मति᳚म् । उ॒रू॒चीम् । म॒र्त॒॑भोज᳚नम् । अध᳚ । रा॒स॒ते॒ । नः॒ ॥
वि॒॑श्रय᳚माणः । अ॒मति᳚म् । उ॒रू॒चीम् । म॒र्त॒॑भोज᳚नम् । अध᳚ । रा॒स॒ते॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
सहावा तेजोन्तराण्यभिभावुकं तेजोयस्य सः वसुपतिर्धनानां पालकः ससवितादेवः नोस्मभ्यं वसूनि धनानि आसाविषत् आसमन्तात् प्रेरयति घेतिपूरणः ससवितादेवः उरूचीं विस्तीर्णगमनां अमतिं रूपं दीप्तिमित्यार्थः विश्रयमाणः निषेवमाणः सन् अध अधुना नोस्मभ्यं मर्तभोजनं मनुष्याणां भोगयोग्यं धनं रासते ददातु ॥ ३ ॥