श्रवणम्

7.94.3
मा पा᳚प॒त्वाय᳚ नो न॒रेन्द्रा᳚ग्नी॒ माभिश᳚स्तये ।
मा नो᳚ रीरधतं नि॒दे ॥
▶ पदपाठः (Word-by-word)
मा । पा॒प॒॑त्वाय᳚ । नः॒ । न॒रा॒ । इन्द्रा᳚ग्नी॒ इति᳚ । मा । अ॒भि॑श᳚स्तये ।
मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरानेताराविन्द्राग्नी नोस्मान् पापत्वाय पापवत्वाय हीनभावाय मारीरधतं मावशीकुरुतम् । तथा अभिशस्तये शत्रुभिः कृतायाभि- शंसनाय मारीरधतं मावशीकुरुतम् । तथा निदे निंदकाय यजमानाय नोस्मान् मारीरधतं मावशीकुरुतम् ॥ ३ ॥ चातुर्विंशिकेहनि प्रातः सवनेच्छावाकस्य इन्द्रेअग्नेत्ययं षळहस्तोत्रियसंज्ञकस्तृचः सूत्रितञ्च-इन्द्रेअग्नानमोबृहत्ताहुवेययोरिदमिति ।