उ॒क्थेभि᳚र्वृत्र॒हन्त᳚मा॒ या म᳚न्दा॒ना चि॒दा गि॒रा ।
आ॒ङ्गू॒षैरा॒विवा᳚सतः ॥
आ॒ङ्गू॒षैरा॒विवा᳚सतः ॥
पदपाठः (Word-by-word)
उ॒क्थेभिः᳚ । वृ॒त्र॒हन्॑त᳚मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।
आ॒ङ्गू॒षैः । आ॒॑विवा᳚सतः ॥
आ॒ङ्गू॒षैः । आ॒॑विवा᳚सतः ॥
सायणभाष्यम् (Sayana Commentary)
वृत्रहन्तमा वृत्राणामावरकाणां हन्तृतमौ मन्दाना मोदमानौ या याविन्द्राग्नी उक्थेभिः शस्त्रैः गिरा च स्तुत्या च आविवासतः परिचर्येते व्यत्ययेन कर्मणि कर्तृप्रत्ययः चिदितिचार्थे आङ्गुषैरन्यैश्च स्तोत्रैः यावाविवासतः परिचर्येते तौ युवां आगच्छतमिति- शेषः ॥ ११ ॥