श्रवणम्

7.94.8
मा कस्य᳚ नो॒ अर᳚रुषो धू॒र्तिः प्रण॒ङ्मर्त्य᳚स्य ।
इन्द्रा᳚ग्नी॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
मा । कस्य᳚ । नः॒ । अर᳚रुषः । धू॒र्तिः । प्रण᳚क् । मर्त्य᳚स्य ।
इन्द्रा᳚ग्नी॒ इति᳚ । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी कस्य कस्यचिदापि अररुषः अरेर्मर्त्यस्य मनुष्यसंबन्धिनी धूर्तिः हिंसा नोस्मान् माप्रणक् मा प्राप्नोति शर्मसुखं च अस्मभ्यं यच्छतं दत्तम् ॥ ८ ॥