इन्द्रे᳚ अ॒ग्ना नमो᳚ बृ॒हत्सु᳚वृ॒क्तिमेर᳚यामहे ।
धि॒या धेना᳚ अव॒स्यवः᳚ ॥
धि॒या धेना᳚ अव॒स्यवः᳚ ॥
पदपाठः (Word-by-word)
इन्द्रे᳚ । अ॒ग्ना । नमः᳚ । बृ॒हत् । सु॒॑वृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।
धि॒या । धेनाः᳚ । अ॒व॒स्यवः᳚ ॥
धि॒या । धेनाः᳚ । अ॒व॒स्यवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अवस्यवः रक्षणकामाः वयं इन्द्रे देवे अग्ना अग्नौ च बृहत् बृंहणं वर्धकं हविर्लक्षणमन्नं सुवृक्तिं सुप्रवृत्तां स्तुतिंच आ ईरयामहे अभिप्रेर- यामः । तथा धिया कर्मणा युक्ताः वाङ्नामैतत् अप्रगीताः स्तुतिवाचश्च अभि प्रेरयामः ॥ ४ ॥