अव᳚ द्रु॒ग्धानि॒ पित्र्या᳚ सृजा॒ नो॑व॒ या व॒यं च᳚कृ॒मा त॒नूभि᳚ः ।
अव᳚ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि᳚ष्ठम् ॥
अव᳚ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि᳚ष्ठम् ॥
पदपाठः (Word-by-word)
अव᳚ । द्रु॒ग्धानि᳚ । पित्र्या᳚ । सृ॒ज॒ । नः॒ । अव᳚ । या । व॒यम् । च॒कृ॒म । त॒नूभिः᳚ ।
अव᳚ । रा॒ज॒न् । प॒शु॒॑तृप᳚म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः᳚ । वसि᳚ष्ठम् ॥
अव᳚ । रा॒ज॒न् । प॒शु॒॑तृप᳚म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः᳚ । वसि᳚ष्ठम् ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण पित्र्या पितृतः प्राप्तानि नोस्मदीयानि दुग्धानि द्रोहान् बन्धनहेतुभूतान् अवसृज विमुञ्च अस्मत्तोविश्लेषय वयंच या यानि द्रोह- जातानि तनुभिः शरीरैः चकृम कृतवन्तः स्म तानिच अवसृज । हे राजन् राजमान वरुण पशुतृपं न तायुं स्तैन्यप्रयश्चित्तं कृत्वा अव- साने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दाम्नोरज्जोर्वत्सं न वत्समिव च वसिष्ठं मां बन्धकात्पापातवसृज विमुञ्च ॥ ५ ॥