श्रवणम्

7.4.5 समानपद
आ यो योनिं᳚ दे॒वकृ᳚तं स॒साद॒ क्रत्वा॒ ह्य१॒᳚ग्निर॒मृता{4}॒ अता᳚रीत् ।
तमोष᳚धीश्च व॒निन᳚श्च॒ गर्भं॒ भूमि᳚श्च वि॒श्वधा᳚यसं बिभर्ति ॥
▶ पदपाठः (Word-by-word)
आ । यः । योनि᳚म् । दे॒व॑कृ᳚तम् । स॒साद᳚ । क्रत्वा᳚ । हि । अ॒ग्निः । अ॒मृता᳚न् । अता᳚रीत् ।
तम् । ओष᳚धीः । च॒ । व॒निनः᳚ । च॒ । गर्भ᳚म् । भूमिः᳚ । च॒ । वि॒श्व॑धा᳚यसम् । बि॒भ॒र्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः देवकृतं देवैः कल्पितं योनिं स्थानं आससाद अध्यास्ते । किमर्थं देवाः स्थानं कल्पयन्त्यग्नेरित्यतआह हि यस्मात् कारणात् अग्निः क्रत्वा प्रज्ञया अमृतान् देवान् अतारीत् । विश्वधायसं विश्वस्य धारकं ओषधीरोषधयः वनिनश्च वृक्षाश्च गर्भं गर्भं सन्तं तं बिभ्रती भूमिश्च बिभर्ति श्रुतमेव बिभर्तीति पदं बहुवचनान्तया विपरिणतंसत् ओषधीभिः वनिभिश्च संबध्यते ॥ ५ ॥