श्रवणम्

7.4.9
त्वम᳚ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु᳚ नः सहसावन्नव॒द्यात् ।
सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथ॒ः सं र॒यिः स्पृ᳚ह॒याय्य᳚ः सह॒स्री ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति᳚ । नः॒ । स॒ह॒सा॒॑व॒न् । अ॒व॒द्यात् ।
सम् । त्वा॒ । ध्व॒स्म॒न्॑वत् । अ॒भि । ए॒तु॒ । पाथः᳚ । सम् । र॒यिः । स्पृ॒ह॒याय्यः᳚ । स॒ह॒स्री ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वनुष्यतो हिंसकात् नोस्मान्निपाहि सहसावन् हे बलवन्नग्ने त्वमु त्वमेवाद्यात्पापात् च नोस्मान्निपाहि त्वा त्वां ध्वस्मन्वत् ध्वस्तदोषं पाथोन्नंहविः समभ्येतु सम्यक् प्राप्नोतु अपिचास्मान् स्पृहयाय्यः स्पृहणीयः सहस्त्री सहस्रसंख्याको रयिः अभ्येतु ॥ ९ ॥