अ॒स्य दे॒वस्य᳚ सं॒सद्यनी᳚के॒ यं मर्ता᳚सः श्ये॒तं ज᳚गृ॒भ्रे ।
नि यो गृभं॒ पौरु᳚षेयीमु॒वोच᳚ दु॒रोक᳚म॒ग्निरा॒यवे᳚ शुशोच ॥
नि यो गृभं॒ पौरु᳚षेयीमु॒वोच᳚ दु॒रोक᳚म॒ग्निरा॒यवे᳚ शुशोच ॥
पदपाठः (Word-by-word)
अ॒स्य । दे॒वस्य᳚ । स॒म्॑सदि᳚ । अनी᳚के । यम् । मर्ता᳚सः । श्ये॒तम् । ज॒गृ॒भ्रे ।
नि । यः । गृभ᳚म् । पौरु᳚षेयीम् । उ॒वोच᳚ । दुः॒॑ओक᳚म् । अ॒ग्निः । आ॒यवे᳚ । शु॒शो॒च॒ ॥
नि । यः । गृभ᳚म् । पौरु᳚षेयीम् । उ॒वोच᳚ । दुः॒॑ओक᳚म् । अ॒ग्निः । आ॒यवे᳚ । शु॒शो॒च॒ ॥
सायणभाष्यम् (Sayana Commentary)
अस्य देवस्याग्नेः अनीके मुख्ये संसदि स्थाने श्येतं श्वेतं शुभ्रं यमग्निं मर्तासो मनुष्याः जगृभ्रे परिगृह्णंति । यश्चाग्निः पौरुषेयीं पुरुषैः क्रियमाणां गृभं गृभीतं निउवोच अत्र वचिः सेवार्थे वर्तते निषेवतइत्यर्थः । सोग्निः आयवे वनुष्यार्थं दुह्यवः आयवइति मनुष्यनामसु पाठात् दुरोकं सपत्नैर्दुःसेवं यथा भवति तथा शुशोच दीप्यते ॥ ३ ॥