श्रवणम्

7.37.3
उ॒वोचि᳚थ॒ हि म᳚घवन्दे॒ष्णं म॒हो अर्भ᳚स्य॒ वसु᳚नो विभा॒गे ।
उ॒भा ते᳚ पू॒र्णा वसु᳚ना॒ गभ᳚स्ती॒ न सू॒नृता॒ नि य᳚मते वस॒व्या᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒वोचि᳚थ । हि । म॒घ॒॑व॒न् । दे॒ष्णम् । म॒हः । अर्भ᳚स्य । वसु᳚नः । वि॒॑भा॒गे ।
उ॒भा । ते॒ । पू॒र्णा । वसु᳚ना । गभ᳚स्ती॒ इति᳚ । न । सू॒नृता᳚ । नि । य॒म॒ते॒ । व॒स॒व्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उवोचिथेत्याद्याः पंचर्चइन्द्रदेवताकाः हे मघवन् धनवन्निन्द्र त्वं महोमहतः अर्भस्याल्पस्यच वसुनोधनस्य विभागे परिचरणानुकूलेदान- निमित्ते देष्णं धनं उवोचिथहि सेवसेखलु उचतिःसेवाकर्मा तथा ते त्वदीयौ उभा उभौ गभस्ती बाहू वसुना धनेन पूर्णा पूर्णौ भवतः ते त्वदीयासूनृतावाक् वसव्या वसूनि धनानि ननियमते ननिच्छति यद्वा वसव्या वसुषु धनेषु साधुः सूनृतावाक् धनेन संपूर्णौ त्वदीयौ बाहू ननियच्छति नाल्पंप्रदापयतीत्यर्थः ॥ ३ ॥