श्रवणम्

7.37.2
यू॒यं ह॒ रत्नं᳚ म॒घव᳚त्सु धत्थ स्व॒र्दृश᳚ ऋभुक्षणो॒ अमृ᳚क्तम् ।
सं य॒ज्ञेषु᳚ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां᳚सि म॒तिभि᳚र्दयध्वम् ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । ह॒ । रत्न᳚म् । म॒घव᳚त्॑सु । ध॒त्थ॒ । स्वः॒॑दृशः᳚ । ऋ॒भु॒क्ष॒णः॒ । अमृ᳚क्तम् ।
सम् । य॒ज्ञेषु᳚ । स्व॒धा॒॑व॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां᳚सि । म॒ति॑भिः᳚ । द॒य॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभुक्षणः हे ऋभवः स्वर्दृशः स्वर्गं पश्यन्तोयूयं ह यूयमेव मघवत्सु हविर्लक्षणान्नवत्सु अस्मासु निमित्तेषु अमृतं अहिंसितं चोरादिभि- र्नापहृतमित्यर्थः रत्नं रमणीयं धत्थ धारयथ तत्नन्तरं स्वधावन्तोबलवन्तस्ते यूयं यज्ञेषु अस्मदीययज्ञेषु संपिबध्वं सम्यक् सोमंपिबत अपिच यूयं मतिभिर्धनहेतुभिः नोस्मभ्यं राधांसि धनानि विदयध्वं विशेषेणदत्त ॥ २ ॥