श्रवणम्

7.37.6
वा॒सय᳚सीव वे॒धस॒स्त्वं नः᳚ क॒दा न᳚ इन्द्र॒ वच᳚सो बुबोधः ।
अस्तं᳚ ता॒त्या धि॒या र॒यिं सु॒वीरं᳚ पृ॒क्षो नो॒ अर्वा॒ न्यु᳚हीत वा॒जी ॥
▶ पदपाठः (Word-by-word)
वा॒सय᳚सि॑इव । वे॒धसः᳚ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच᳚सः । बु॒बो॒धः॒ ।
अस्त᳚म् । ता॒त्या । धि॒या । र॒यिम् । सु॒॑वीर᳚म् । पृ॒क्षः । नः॒ । अर्वा᳚ । नि । उ॒ही॒त॒ । वा॒जी ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं कदा कस्मिन्काले नोस्मदीयं वचसः वचोरूपं स्तोत्रं बुबोधः अवगच्छेः तथा सत्वं वेधसः स्तोतॄन् नः अस्मान् वासयसीव इवेदानीमर्थे इदानीं स्वकीयस्थाने अवस्थापयसि किंच वाजी बलवान् अर्वा वेगवान् त्वदीयोश्वः तात्या तनोतेरिदंरूपं संततया धिया अस्मत्प्रेरितया स्तुत्या हेतुभूतया सुवीरं शोभनपुत्रोपेतं रयिं त्वदीयं धनं पृक्षोन्नंच नोस्मदीयं अस्तं गृहं न्यहीत निवहेत् ॥ ६ ॥