तुभ्यं᳚ दे॒वाय॒ दाश᳚तः स्याम यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
तुभ्य᳚म् । दे॒वाय᳚ । दाश᳚तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने नोस्माकं देवहूतिं स्तोत्रं यज्ञंवा देवेभिः देवैः सार्धं वषट् कृतिं हविः जुषाणः सेवमानस्त्वं उप आयाहि । देवाय द्योतमानाय तुभ्यं वयं दाशतः परिचरन्तः स्याम भवेम । सिद्धमन्यत् ॥ ३ ॥
उपसद्यायेति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयं तथाचानुक्रान्तं-उपसद्याय पंचोना गायत्रमिति प्रातरनुवाके आग्नेये- क्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चेदं सूक्तं सूत्रितं च-उपसद्याय त्वमग्नेयज्ञानामिति तिस्रउत्तमाउद्धरेदिति । उपसदि पौर्वाह्णिक्यां उअपसद्यायेत्याद्यास्तिस्रऋचः सामिधेन्यः सूत्र्यते च-उपसद्यायमीह्ळुषइति तिस्रः एकैकां त्रिरनवानमिति । पवित्रेष्ट्यां अग्नेरक्षांसी- त्येषा प्रथमाज्यभागानुवाक्या सूत्रितं च-पावकवन्तावाज्यभागावग्नी रक्षांसिसेधतीति । अन्वारंभणीयायां अग्नेर्भगिनोयाज्या सूत्रितं च-आसवंसवितुर्यथा सनोराधांस्याभरेति । स्वस्त्ययन्यामिष्टौ अग्नेरक्षाणइतिप्रथमाज्यभागानुवाक्या सूत्रितं च-स्वस्त्ययन्यांरक्षित- वन्तावग्नेरक्षाणोअंहसइति ।