श्रवणम्

7.66.4
यद॒द्य सूर॒ उदि॒ते॑ना᳚गा मि॒त्रो अ᳚र्य॒मा ।
सु॒वाति᳚ सवि॒ता भगः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सूरे᳚ । उत्॑इ᳚ते । अना᳚गाः । मि॒त्रः । अ॒र्य॒मा ।
सु॒वाति᳚ । स॒वि॒ता । भगः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्धनमस्माकमपेक्षितं तदद्यास्मिन्काले सूरे उदिते सति प्रातःसवने अनागाः पापहन्ता मित्रः अर्यमा सविता भगश्चैते प्रत्येकं सुवाति प्रेरयेत अथवा अनागामित्रोर्यमा दाता भवतु तदीप्सितं धनं भगोभजनीयः सविता सुवाति प्रेरयतु ॥ ४ ॥