अ॒वोर्वां᳚ नू॒नम᳚श्विना यु॒वाकु᳚र्हु॒वे यद्वां᳚ सु॒ते मा᳚ध्वी वसू॒युः ।
आ वां᳚ वहन्तु॒ स्थवि᳚रासो॒ अश्वा॒ः पिबा᳚थो अ॒स्मे सुषु᳚ता॒ मधू᳚नि ॥
आ वां᳚ वहन्तु॒ स्थवि᳚रासो॒ अश्वा॒ः पिबा᳚थो अ॒स्मे सुषु᳚ता॒ मधू᳚नि ॥
पदपाठः (Word-by-word)
अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः᳚ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति᳚ । व॒सु॒॑युः ।
आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि᳚रासः । अश्वाः᳚ । पिबा᳚थः । अ॒स्मे इति᳚ । सु॑सु᳚ता । मधू᳚नि ॥
आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि᳚रासः । अश्वाः᳚ । पिबा᳚थः । अ॒स्मे इति᳚ । सु॑सु᳚ता । मधू᳚नि ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ अवोः रक्षित्रोः वां युवाभ्यां युवां कामयमानोहं नूनमद्य स्वभूतोभवामीति शेषः यद्यस्मात् हे माध्वी मधुरस्य सोमस्यार्हौ मधुविद्यासंबन्धिनौ वा वां युवां सुते अभिषुते सोमे वसूयुर्वसुकामोहुवे स्तौमि अतोवां स्वभूतः वां युवां आवहन्तु के स्थविरासः स्थूलाः प्रवृद्धा अश्वाएतयोरतिप्रवृद्धात्वात् शीघ्रगतेरपेक्षितत्वाच्च स्थविरैरेव भाव्यम् आगमनानन्तरं अस्मे अस्माभिः सुषुता सुष्ठु अभिषुतानि मधूनि मधुररसान् पिबाथः पिबतम् ॥ ४ ॥