यो मृ॒ळया᳚ति च॒क्रुषे᳚ चि॒दागो᳚ व॒यं स्या᳚म॒ वरु᳚णे॒ अना᳚गाः ।
अनु᳚ व्र॒तान्यदि᳚तेरृ॒धन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
अनु᳚ व्र॒तान्यदि᳚तेरृ॒धन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
यः । मृ॒ळया᳚ति । च॒क्रुषे᳚ । चि॒त् । आगः᳚ । व॒यम् । स्या॒म॒ । वरु᳚णे । अना᳚गाः ।
अनु᳚ । व्र॒तानि᳚ । अदि᳚तेः । ऋ॒धन्तः᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
अनु᳚ । व्र॒तानि᳚ । अदि᳚तेः । ऋ॒धन्तः᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
आगोपराधं चक्रुषे चित् कृतवतेपि स्तोत्रे योवरुणः मृळयाति उपदयांकरोति तस्मिन्वरुणे अनागाः अनागसः अनपराधाः सन्तोवयं स्याम वर्तमानभवेम । किंकुर्वन्तः अदितेरदीनस्य वरुणस्य सम्बन्धीनि व्रतानि कर्माणि अनु आनुपूर्व्येण ऋधन्तः समर्धयन्तः हे वरुणाद- योदेवाः यूयं अस्मान् सर्वदा कल्याणैः पालयत ॥ ७ ॥
प्रशुन्ध्युवमिति सप्तर्चमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणं प्रशुन्ध्युवमित्यनुक्रान्तम् । गतोविनियोगः ।