आ॒त्मा ते॒ वातो॒ रज॒ आ न᳚वीनोत्प॒शुर्न भूर्णि॒र्यव᳚से सस॒वान् ।
अ॒न्तर्म॒ही बृ᳚ह॒ती रोद᳚सी॒मे विश्वा᳚ ते॒ धाम᳚ वरुण प्रि॒याणि᳚ ॥
अ॒न्तर्म॒ही बृ᳚ह॒ती रोद᳚सी॒मे विश्वा᳚ ते॒ धाम᳚ वरुण प्रि॒याणि᳚ ॥
पदपाठः (Word-by-word)
आ॒त्मा । ते॒ । वातः᳚ । रजः᳚ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः᳚ । यव᳚से । स॒स॒॑वान् ।
अ॒न्तः । म॒ही इति᳚ । बृ॒ह॒ती इति᳚ । रोद᳚सी॒ इति᳚ । इ॒मे इति᳚ । विश्वा᳚ । ते॒ । धाम᳚ । व॒रु॒ण॒ । प्रि॒याणि᳚ ॥
अ॒न्तः । म॒ही इति᳚ । बृ॒ह॒ती इति᳚ । रोद᳚सी॒ इति᳚ । इ॒मे इति᳚ । विश्वा᳚ । ते॒ । धाम᳚ । व॒रु॒ण॒ । प्रि॒याणि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण ते त्वदीयः त्वया अन्तरिक्षे प्रेर्यमाणो वातो वायुरात्मा सर्वस्य प्राणिजातस्य प्राणरूपेण धारयिता सच रजउदकं आनवीनोत् समन्तात्प्रेरयति वातेनहि वृष्टिर्जायते भूर्णिर्जगतो सवायुर्यवसे घासे प्रक्षिप्ते सति पशुर्न यथा पशुरन्नवान्भवति तद्वत् ससवान् ससमि- त्यन्ननाम तद्वान् भवति हविर्लक्षणमन्नमपि तस्मै प्रयच्छतीर्यर्थः युद्वा सनोतेः क्वसौ रूपं ततः ससवान् संभक्तवान् वातः घासे सति पशुर्यथा भारवाहीभवति तद्वत् जगतोभर्ता । हे वरुण मही महत्यौ बृहती परिवृढे इमे रोदसी द्यावापृथिव्यौ अन्तर्मध्ये द्यावापृथिव्यो- र्मध्ये इत्यर्थः ते तव विश्वा सर्वाणि धाम धामानि स्थानानि तेजांसि वा प्रियाणि सर्वेषां प्रीतिकराणि भवन्ति ॥ २ ॥