श्रवणम्

7.92.2 समानपद
प्र सोता᳚ जी॒रो अ᳚ध्व॒रेष्व᳚स्था॒त्सोम॒मिन्द्रा᳚य वा॒यवे॒ पिब᳚ध्यै ।
प्र यद्वां॒ मध्वो᳚ अग्रि॒यं भर᳚न्त्यध्व॒र्यवो᳚ देव॒यन्त॒ः शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
प्र । सोता᳚ । जी॒रः । अ॒ध्व॒रेषु᳚ । अ॒स्था॒त् । सोम᳚म् । इन्द्रा᳚य । वा॒यवे᳚ । पिब᳚ध्यै ।
प्र । यत् । वा॒म् । मध्वः᳚ । अ॒ग्रि॒यम् । भर᳚न्ति । अ॒ध्व॒र्यवः᳚ । दे॒व॒॑यन्तः᳚ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जीरः क्षिप्रकारी सोता अभिषोता अध्वर्युः इन्द्राय वायवे च पिबध्यै पानार्थं अध्वरेषु यागेषु सोमं प्रास्थात् प्रातिष्ठिपत् पुरस्तादुत्तरवेदिं प्रापितवान् । हे इन्द्रवायू येषु यज्ञेषु मध्वः सोमस्य अग्रियं अग्रभवं प्रथमभागं देवयन्तो देवकामाः अध्वर्यवः शचीभिः कर्मभिः अभिष- वादिलक्षणैः वां युवयोरर्थं प्रभरन्ति प्रकर्षेण भरन्ति संपादयन्ति तेष्वध्वरेष्वित्यन्वयः ॥ २ ॥ शुनासीरीये पर्वणि नियुत्वद्वायोर्यागस्य प्रयाभिरिति याज्या सूत्रितञ्च-प्रयाभिर्यासिदाश्वांसमच्छसत्वंनोदेवमनसेति । तद्देवत्ये पशावेषैव पुरोडाशस्यानुवाक्या सूत्रितञ्च-प्रयाभिर्यासिदाश्वांसमच्छानोनियुद्भिःशतिनीभिरिति । प्रथमे छन्दोमे प्रउगशस्त्रे एषैव वायव्यतृचस्य तृतीया सूत्रितञ्च-आवायोभूषशुचिपाउपनः प्रयाभिर्यासिदाश्वांसमच्छेति ।