श्रवणम्

7.5.3 समानपद
त्वद्भि॒या विश᳚ आय॒न्नसि᳚क्नीरसम॒ना जह᳚ती॒र्भोज᳚नानि ।
वैश्वा᳚नर पू॒रवे॒ शोशु᳚चान॒ः पुरो॒ यद᳚ग्ने द॒रय॒न्नदी᳚देः ॥
▶ पदपाठः (Word-by-word)
त्वत् । भि॒या । विशः᳚ । आ॒य॒न् । असि᳚क्नीः । अ॒स॒म॒नाः । जह᳚तीः । भोज᳚नानि ।
वैश्वा᳚नर । पू॒रवे᳚ । शोशु᳚चानः । पुरः᳚ । यत् । अ॒ग्ने॒ । द॒रय᳚न् । अदी᳚देः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर विश्वनसहिताग्ने त्वत् त्वत्तो भिया भीत्या असिक्रीः असितवर्णाः राजस्यः प्रथमार्थे द्वितीया विशः प्रजाः असमनाः परस्परमसमेताः भोजनानि धनानि जहतीः त्यजन्त्यः आयन् आगच्छन् । कदेत्यत आह यद्यदा पूरवे राज्ञे शोशुचानो दीप्यमानः पुरस्त- स्य शत्रूणां पुरो दरयन् दारयन् अदीदेः अज्वलः तथा च निगमः-अंहोराजन् वरिवःपूरवेकरिति ॥ ३ ॥