श्रवणम्

7.5.9
तं नो᳚ अग्ने म॒घव᳚द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं᳚ युवस्व ।
वैश्वा᳚नर॒ महि᳚ न॒ः शर्म᳚ यच्छ रु॒द्रेभि᳚रग्ने॒ वसु᳚भिः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । अ॒ग्ने॒ । म॒घव᳚त्॑भ्यः । पु॒रु॒॑क्षुम् । र॒यिम् । नि । वाज᳚म् । श्रुत्य᳚म् । यु॒व॒स्व॒ ।
वैश्वा᳚नर । महि᳚ । नः॒ । शर्म᳚ । य॒च्छ॒ । रु॒द्रेभिः᳚ । अ॒ग्ने॒ । वसु᳚॑भिः । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मघवड्मो धनवड्मः हविष्मड्मइत्यर्थः नोस्मभ्यं पुरुक्षुं बह्वन्नं बहुयशस्कं वा तं प्रसिद्धं रयिं श्रुत्यं श्रवणीयं वाजं बलं च नियुवस्व नितरां मिश्रयस्व । किं च हे वैश्वानर विश्वनरहिताग्ने त्वं रुद्रेभिः रुद्रैर्वसुभिश्च देवैः सजोषाः सहितश्चसन् नोस्मभ्यं महि महत् शर्म सुखं यच्छ प्रयच्छ ॥ ९ ॥

प्रसम्राज इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं अनुक्रम्यते च-प्र्सम्राजः सप्त वैश्वानरीयं त्वित्युक्तत्वात् अस्यापि वैश्वानरोग्निर्देवता । विनियोगो लैङ्गिकः ।