श्रवणम्

7.5.2 समानपद
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ᳚थि॒व्यां ने॒ता सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् ।
स मानु᳚षीर॒भि विशो॒ वि भा᳚ति वैश्वान॒रो वा᳚वृधा॒नो वरे᳚ण ॥
▶ पदपाठः (Word-by-word)
पृ॒ष्टः । दि॒वि । धायि᳚ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू᳚नाम् । वृ॒ष॒भः । स्तिया᳚नाम् ।
सः । मानु᳚षीः । अ॒भि । विशः᳚ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धूनां नदीनां नेता स्तियानां अपां स्तिया आपोभवन्ति स्त्यायनादिति यास्कवचनात् । वृषभो वर्षिता पृष्टोर्चितस्तेजसा संपृक्तो वा योग्निः दिव्यन्तरिक्षे पृथिव्यां च धायिन्यधायि । स वैश्वानरो विश्वनरहितोग्निः वरेण श्रेष्ठेन हविषा तेजसा वा वावृधानो वर्धमानःसन् मानुषीर्विशोभिमानुषीः प्रजाः प्रति विभाति ॥ २ ॥