ताम᳚ग्ने अ॒स्मे इष॒मेर᳚यस्व॒ वैश्वा᳚नर द्यु॒मतीं᳚ जातवेदः ।
यया॒ राध॒ः पिन्व᳚सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ॥
यया॒ राध॒ः पिन्व᳚सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ॥
पदपाठः (Word-by-word)
ताम् । अ॒ग्ने॒ । अ॒स्मे इति᳚ । इष᳚म् । आ । ई॒र॒य॒स्व॒ । वैश्वा᳚नर । द्यु॒॑मती᳚म् । जा॒त॒॑वे॒दः॒ ।
यया᳚ । राधः᳚ । पिन्व᳚सि । वि॒श्व॒॑वा॒र॒ । पृ॒थु । श्रवः᳚ । दा॒शुषे᳚ । मर्त्या᳚य ॥
यया᳚ । राधः᳚ । पिन्व᳚सि । वि॒श्व॒॑वा॒र॒ । पृ॒थु । श्रवः᳚ । दा॒शुषे᳚ । मर्त्या᳚य ॥
सायणभाष्यम् (Sayana Commentary)
हे जातवेदः जातप्रज्ञ वैश्वानर विश्वनरहिताग्ने तामिषं एषणीयां वृष्टिं द्युमतीं दीप्तिमतीं अस्मे अस्मभ्यं एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा यथा द्युमतीं तामिषमन्नमे रयस्व तथा च श्रूयते-तस्माद्यस्यैवैहभूयिष्ठमन्नंभवतिसएवभूयिष्ठंलोकेविराज- तीति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व यया इषा रायो धनं पिन्वसि पालयसि अपि च हे विश्ववार विश्वै- र्वरणीयाग्ने पृथु विस्तीर्णं श्रवो यशः दाशुषे मर्त्याय यजमानाय पिन्वसि ॥ ८ ॥