ए॒ष स्तोमो᳚ अचिक्रद॒द्वृषा᳚ त उ॒त स्ता॒मुर्म᳚घवन्नक्रपिष्ट ।
रा॒यस्कामो᳚ जरि॒तारं᳚ त॒ आग॒न्त्वम॒ङ्ग श᳚क्र॒ वस्व॒ आ श᳚को नः ॥
रा॒यस्कामो᳚ जरि॒तारं᳚ त॒ आग॒न्त्वम॒ङ्ग श᳚क्र॒ वस्व॒ आ श᳚को नः ॥
पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । अ॒चि॒क्र॒द॒त् । वृषा᳚ । ते॒ । उ॒त । स्ता॒मुः । म॒घ॒॑व॒न् । अ॒क्र॒पि॒ष्ट॒ ।
रा॒यः । कामः᳚ । ज॒रि॒तार᳚म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः᳚ । आ । श॒कः॒ । नः॒ ॥
रा॒यः । कामः᳚ । ज॒रि॒तार᳚म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः᳚ । आ । श॒कः॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे मघवन् धनवन्निन्द्र ते त्वदर्थं वृषा सेक्ता एषः स्तोमः सोमः सूयमानः अचिक्रदत् क्रन्दति उतापिच स्तामुः स्तोता अक्रपिष्ट अस्तौत् अपिच हे शक्र ते तव जरितारं स्तोतारं मां रायोधनस्य कामोभिलाष आगन् आगतः अतस्त्वं वस्वो धनं कर्मणिषष्ठी नोस्मभ्यं अंग क्षिप्रं आशकः धेहि ॥ ९ ॥