श्रवणम्

7.20.3 समानपद
यु॒ध्मो अ᳚न॒र्वा ख᳚ज॒कृत्स॒मद्वा॒ शूरः᳚ सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः ।
व्या᳚स॒ इन्द्र॒ः पृत᳚ना॒ः स्वोजा॒ अधा॒ विश्वं᳚ शत्रू॒यन्तं᳚ जघान ॥
▶ पदपाठः (Word-by-word)
यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒॑कृत् । स॒मत्॑वा᳚ । शूरः᳚ । स॒त्रा॒षाट् । ज॒नुषा᳚ । ई॒म् । अषा᳚ळ्हः ।
वि । आ॒से॒ । इन्द्रः᳚ । पृत᳚नाः । सु॒॑ओजाः᳚ । अध᳚ । विश्व᳚म् । श॒त्रु॒॑यन्त᳚म् । ज॒घा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

युध्मो योद्धा अनर्वा अभिगन्तृरहितो युद्धेष्वपराङ्मुखोवा खजकृद्युद्धकृत् खले खजे इति युद्धनामसु पाठात् । समद्वा समत्कलहः तद्वान् शूरः शौर्योपेतः जनुषा जन्मना स्वभावतएव सत्राषाट् बहूनामभिभविता अषाह्ळः स्वयंच केनाप्यनभिभूतः स्वोजाः सुबलःईमयमिन्द्रः पृतनाः शत्रूणां सेनाः व्यासे विक्षिपति । अध अपि च शत्रूयन्तं शात्रवमाचरन्तं विश्वं सर्वं जघान हन्ति ॥ ३ ॥