उ॒भे चि᳚दिन्द्र॒ रोद᳚सी महि॒त्वा प᳚प्राथ॒ तवि᳚षीभिस्तुविष्मः ।
नि वज्र॒मिन्द्रो॒ हरि᳚वा॒न्मिमि᳚क्ष॒न्त्समन्ध᳚सा॒ मदे᳚षु॒ वा उ᳚वोच ॥
नि वज्र॒मिन्द्रो॒ हरि᳚वा॒न्मिमि᳚क्ष॒न्त्समन्ध᳚सा॒ मदे᳚षु॒ वा उ᳚वोच ॥
पदपाठः (Word-by-word)
उ॒भे इति᳚ । चि॒त् । इ॒न्द्र॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा । आ । प॒प्रा॒थ॒ । तवि᳚षीभिः । तु॒वि॒ष्मः॒ ।
नि । वज्र᳚म् । इन्द्रः᳚ । हरि᳚॑वान् । मिमि᳚क्षन् । सम् । अन्ध᳚सा । मदे᳚षु । वै । उ॒वो॒च॒ ॥
नि । वज्र᳚म् । इन्द्रः᳚ । हरि᳚॑वान् । मिमि᳚क्षन् । सम् । अन्ध᳚सा । मदे᳚षु । वै । उ॒वो॒च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे तुविष्मो बहुधनेन्द्र महित्वा महित्वेन तविषीभिर्बलैश्च उभे चित् उभे अपि रोदसी द्यावापृथिव्यौ आ पप्राथ आ पूरितवानसि । अथ- परोक्षस्तुतिः हरिवानश्ववानिन्द्रो वज्रं निमिमिक्षन् शत्रुषु प्रापयन् मदेषु यज्ञेषु निवित्सुवा अन्धसा सोमेन समुवोच संसेव्यते संगच्छते वा । उचसमवाये इतिधातुः वा इति पूरणः ॥ ४ ॥