प्र य॒ज्ञ ए᳚तु॒ हेत्वो॒ न सप्ति॒रुद्य᳚च्छध्वं॒ सम᳚नसो घृ॒ताची᳚ः ।
स्तृ॒णी॒त ब॒र्हिर᳚ध्व॒राय᳚ सा॒धूर्ध्वा शो॒चींषि᳚ देव॒यून्य᳚स्थुः ॥
स्तृ॒णी॒त ब॒र्हिर᳚ध्व॒राय᳚ सा॒धूर्ध्वा शो॒चींषि᳚ देव॒यून्य᳚स्थुः ॥
पदपाठः (Word-by-word)
प्र । य॒ज्ञः । ए॒तु॒ । हेत्वः᳚ । न । सप्तिः᳚ । उत् । य॒च्छ॒ध्व॒म् । स॑म᳚नसः । घृ॒ताचीः᳚ ।
स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय᳚ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि᳚ । दे॒व॒॑यूनि᳚ । अ॒स्थुः॒ ॥
स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय᳚ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि᳚ । दे॒व॒॑यूनि᳚ । अ॒स्थुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयमस्मदीयोयज्ञः प्रैतु देवान् प्रतिगच्छतु तत्रदृष्टान्तः-हेत्वोन सप्तिः शीघ्रगामी अश्वोयथा तद्वत् हे ऋत्विजः सर्वे यूयं समनसः सदृशम- नस्काः सन्तः घृताचीः स्रुचः उद्यच्छध्वं हस्ते उद्यम्य धारयत तथा अध्वराय यागं कर्तुं साधुसाधुकं बर्हिः कुशमयं स्तृणीत वेद्यां छा- दयत हे अग्ने देवयूनि देवान् कामयमानानि त्वदीयानि शोचींष्यर्चींषि ऊर्ध्वा ऊर्ध्वमुखानि अस्थुः तिष्ठन्तु ॥ २ ॥