श्रवणम्

7.43.4
ते सी᳚षपन्त॒ जोष॒मा यज᳚त्रा ऋ॒तस्य॒ धारा᳚ः सु॒दुघा॒ दुहा᳚नाः ।
ज्येष्ठं᳚ वो अ॒द्य मह॒ आ वसू᳚ना॒मा ग᳚न्तन॒ सम᳚नसो॒ यति॒ ष्ठ ॥
▶ पदपाठः (Word-by-word)
ते । सी॒ष॒प॒न्त॒ । जोष᳚म् । आ । यज᳚त्राः । ऋ॒तस्य᳚ । धाराः᳚ । सु॒॑दुघाः᳚ । दुहा᳚नाः ।
ज्येष्ठ᳚म् । वः॒ । अ॒द्य । महः᳚ । आ । वसू᳚नाम् । आ । ग॒न्त॒न॒ । स॑म᳚नसः । यति᳚ । स्थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजत्राः यजनीयाः ते इन्द्रादयोदेवाः ऋतस्योदकस्य सुदुघाः सुखेन दोग्धुं शक्याः धाराः दुहानाः वर्षन्तः जोषं पर्याप्तं यथा भवति तथा आसीषपन्त सपतिः परिचरणार्थः स्तुतिभिरासमन्तात्पर्यचीचरन् अस्मान् परिचरणं कुर्वन्तु स्वीकुर्वंत्वितियावत् अद्यास्मिन्दिने हे देवाः वसूनां धनानां मध्ये ज्येष्ठं श्रेष्ठं वोयुष्मदीयं महो महनीयं धनं आगच्छतु यूयमपि समनसस्तुल्यमतयः सन्तः आगन्तन आगच्छत हे देवाः यूयं यतिष्ठ आगन्तनेति संबन्धः ॥ ४ ॥