श्रवणम्

7.10.2 समानपद
स्व१॒᳚र्ण वस्तो᳚रु॒षसा᳚मरोचि य॒ज्ञं त᳚न्वा॒ना उ॒शिजो॒ न मन्म᳚ ।
अ॒ग्निर्जन्मा᳚नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे᳚व॒यावा॒ वनि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
स्वः᳚ । न । वस्तोः᳚ । उ॒षसा᳚म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः᳚ । न । मन्म᳚ ।
अ॒ग्निः । जन्मा᳚नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒॑यावा᳚ । वनि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेः वस्तोरहनि वस्तोः द्युरित्यहर्नामसुपाठात् उषसामग्ने स्वर्णआदित्यइव तथा च यास्कः-स्वरादित्योभवति सुअरणः सुईरणइति । अरोचि दीप्यते उशिजोन ऋत्विजश्च यज्ञं तन्वानाः विस्तारयन्तः मन्म मन्मानि मननीयानि स्तोत्राणि पठंतीतिशेषः । नेति संप्रत्यर्थे अपि च विद्वान् जानन् दूतो देवानां देवयावा देवान् देवान् प्रतिगच्छन् वनिष्ठो दातृतमोग्निः विआद्रवत् विविधमाद्रवति ॥ २ ॥