श्रवणम्

7.10.5
म॒न्द्रं होता᳚रमु॒शिजो॒ यवि᳚ष्ठम॒ग्निं विश᳚ ईळते अध्व॒रेषु᳚ ।
स हि क्षपा᳚वा{4}॒ अभ᳚वद्रयी॒णामत᳚न्द्रो दू॒तो य॒जथा᳚य दे॒वान् ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । उ॒शिजः᳚ । यवि᳚ष्ठम् । अ॒ग्निम् । विशः᳚ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु᳚ ।
सः । हि । क्षपा᳚॑वान् । अभ᳚वत् । र॒यी॒णाम् । अत᳚न्द्रः । दू॒तः । य॒जथा᳚य । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिजः कामयमानाः विशोमनुष्याः मन्द्रं स्तुत्यं होतारमाह्वातारं यविष्ठं युवतममग्निं अध्वरेषु यागेषु ईळते स्तुवन्ति । हि यस्मात् कारणात् सोग्निः क्षपावान् रात्रिमान् रात्रौ खल्वग्नये अग्निहोत्रं हूयते रयीणां सूर्यस्य रयिमतां हविष्मतां यजमानानां देवान् यजथाय यष्टुं अतन्द्रस्तन्द्रारहितोभवत् । तथा च श्रूयते यस्मादृऊतोभवत्तस्माद्विशस्तमध्वरेईळतइति ॥ ५ ॥

महाँअसीति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं महानित्यनुक्रांन्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।