श्रवणम्

7.9.6
त्वाम᳚ग्ने समिधा॒नो वसि᳚ष्ठो॒ जरू᳚थं ह॒न्यक्षि᳚ रा॒ये पुरं᳚धिम् ।
पु॒रु॒णी॒था जा᳚तवेदो जरस्व यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नः । वसि᳚ष्ठः । जरू᳚थम् । ह॒न् । यक्षि᳚ । रा॒ये । पुर᳚म्॑धिम् ।
पु॒रु॒॑नी॒था । जा॒त॒॑वे॒दः॒ । ज॒र॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां वसिष्ठऋषिः समिधानोभवति । त्वं च जरूथं परुषभाषिणं जरणीयं वा रक्षोगणं हन् जहि । राये धनवते यजमानाय पुरंधिं बहुधियं देवगणं तथा च यास्कः-पुरंधिर्बहुधीरिति यक्षि यज । किं च हे जातवेदोग्ने पुरुणीथा बहुनीथेन बहुना स्तोत्रेण जरस्व देवान् स्तुहि । यद्वा पुरुणीथानेकमार्गाणि रक्षांसि जरयेत्यर्थः ॥ ६ ॥

उषोनजारइति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रान्तं उषोनपञ्चेति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।