स सु॒क्रतु॒र्यो वि दुरः᳚ पणी॒नां पु᳚ना॒नो अ॒र्कं पु᳚रु॒भोज᳚सं नः ।
होता᳚ म॒न्द्रो वि॒शां दमू᳚नास्ति॒रस्तमो᳚ ददृशे रा॒म्याणा᳚म् ॥
होता᳚ म॒न्द्रो वि॒शां दमू᳚नास्ति॒रस्तमो᳚ ददृशे रा॒म्याणा᳚म् ॥
पदपाठः (Word-by-word)
सः । सु॒॑क्रतुः᳚ । यः । वि । दुरः᳚ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒॑भोज᳚सम् । नः॒ ।
होता᳚ । म॒न्द्रः । वि॒शाम् । दमू᳚नाः । ति॒रः । तमः᳚ । द॒दृ॒शे॒ । रा॒म्याणा᳚म् ॥
होता᳚ । म॒न्द्रः । वि॒शाम् । दमू᳚नाः । ति॒रः । तमः᳚ । द॒दृ॒शे॒ । रा॒म्याणा᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सोग्निः सुक्रतुः सुकर्मा सुप्रज्ञो वा भवति योग्निः पणीनां असुराणां दुरो गवां द्वाराणि पिधानानि विवृतवान् पुरुभोजसं बहुक्षीरं अर्कमर्च- नीयं गवां संघं नोस्मादर्थं पुनानः शोधयन् हरन् इत्यर्थः । होता देवानामाह्वाता मन्द्रो मदयिता स्तुत्योवा दमूनाः दममनावा दानम- नावा दान्तमनावा रम्याणां रात्रीणां रमयित्रीणां वा विशां जनानां यजमानानां वा तमोंधकारं तिरः तिरस्कुर्वन् ददृशे दृश्यते । च यद्वा तमस्तिरोददृशे नाशयतीत्यर्थः ॥ २ ॥