अग्ने᳚ या॒हि दू॒त्यं१॒᳚ मा रि᳚षण्यो दे॒वा{4} अच्छा᳚ ब्रह्म॒कृता᳚ ग॒णेन᳚ ।
सर᳚स्वतीं म॒रुतो᳚ अ॒श्विना॒पो यक्षि᳚ दे॒वान्र᳚त्न॒धेया᳚य॒ विश्वा᳚न् ॥
सर᳚स्वतीं म॒रुतो᳚ अ॒श्विना॒पो यक्षि᳚ दे॒वान्र᳚त्न॒धेया᳚य॒ विश्वा᳚न् ॥
पदपाठः (Word-by-word)
अग्ने᳚ । या॒हि । दू॒त्य᳚म् । मा । रि॒ष॒ण्यः॒ । दे॒वान् । अच्छ᳚ । ब्र॒ह्म॒॑कृता᳚ । ग॒णेन᳚ ।
सर᳚स्वतीम् । म॒रुतः᳚ । अ॒श्विना᳚ । अ॒पः । यक्षि᳚ । दे॒वान् । र॒त्न॒॑धेया᳚य । विश्वा᳚न् ॥
सर᳚स्वतीम् । म॒रुतः᳚ । अ॒श्विना᳚ । अ॒पः । यक्षि᳚ । दे॒वान् । र॒त्न॒॑धेया᳚य । विश्वा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने दूत्यं दूतस्य कर्म हविर्वहनादि याहि देवानच्छाभिगच्छ । गणेन संघेन सह ब्रह्मकृता ब्रह्मकृतोस्मान् अस्मदीयांश्च तव स्तोतॄन् मारिषण्यः माहिंसीः सरस्वतीं मरुतो आश्वना अश्विनौ अपश्च एतान् देवान् रत्नधेयायास्मभ्यं रत्नदानाय यक्षिच ॥ ५ ॥