श्रवणम्

7.3.10
ए॒ता नो᳚ अग्ने॒ सौभ᳚गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत᳚सं वतेम ।
विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च᳚ सन्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ᳚गा । दि॒दी॒हि॒ । अपि᳚ । क्रतु᳚म् । सु॒॑चेत᳚सम् । व॒ते॒म॒ ।
विश्वा᳚ । स्तो॒तृ॑भ्यः᳚ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एता एतानि परिदृश्यमानानि सौभगा सौभगानि शोभनानि धनानि नोस्मभ्यं दिदीहि दीपय देहिवा अपि अपिच क्रतुं कर्म यज्ञानां कर्तारं वा सुचेतसं शोभनप्रज्ञायुक्तं सुप्रज्ञानं पुत्रं वा वतेम संभजेमहि । वनतेः संभजनार्थस्यवर्णान्तरागमेसतिरूपं विश्वा विश्वानि धनानि स्तोतृभ्य उद्गातृभ्यो गृणते शंसतेच सन्तु यूयं त्वत्परिवाराश्च सर्वे यूयं नोस्मान् स्वस्तिभिः क्षेमैः सदा सर्वदा पात रक्षत ॥ १० ॥

प्रवःशुक्रायेति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं प्रवइत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये द्वितीयेनोक्तः सूक्तविनियोगः । एकादशिनआग्नेयेपशौ प्रवः शुक्रायेत्येषा वपाया याज्या सूत्रितं च –प्रवःशुक्रायभानवेभरध्वंयथाविप्रस्यमनुषोहविर्भि- रिति ।