श्रवणम्

7.28.3
तव॒ प्रणी᳚तीन्द्र॒ जोहु᳚वाना॒न्त्सं यन्नॄन्न रोद᳚सी नि॒नेथ᳚ ।
म॒हे क्ष॒त्राय॒ शव᳚से॒ हि ज॒ज्ञे॑तू᳚तुजिं चि॒त्तूतु᳚जिरशिश्नत् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । प्र॑नी᳚ती । इ॒न्द्र॒ । जोहु᳚वानान् । सम् । यत् । नॄन् । न । रोद᳚सी॒ इति᳚ । नि॒नेथ᳚ ।
म॒हे । क्ष॒त्राय᳚ । शव᳚से । हि । ज॒ज्ञे । अतू᳚तुजिम् । चि॒त् । तूतु᳚जिः । अ॒शि॒श्न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यस्त्वं तव प्रणीती प्रणीत्या प्रणयनेन जोहुवानान् भृशंस्तुवतोनॄन्न स्तोतॄतिव रोदसी द्यावापृथिव्यौ सन्निनेथ संगमयसि दिवि पृथिव्यां च स्तोतॄन्प्रतिष्ठापयसीत्यर्थः । सत्वं महे महते क्षत्राय धनाय रयिः क्षत्रमिति धननामसु पाठात् शवसे बलाय च यजमाने- भ्योमहद्धनं बलं च दातुमित्यर्थः जज्ञे जज्ञिषे । हीति हेत्वर्थे यतएवमतः कारणात् अतूतुजिं अदातारं अयजमानं तूतुजिः दाता यजमानः अशिश्नत् श्नथतिर्हिंसाकर्मा तस्माल्लडर्थेलुङ् हिनस्ति चिदत्येवकारार्थे ॥ ३ ॥