ए॒भिर्न᳚ इ॒न्द्राह᳚भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒ः पव᳚न्ते ।
प्रति॒ यच्चष्टे॒ अनृ᳚तमने॒ना अव᳚ द्वि॒ता वरु᳚णो मा॒यी नः᳚ सात् ॥
प्रति॒ यच्चष्टे॒ अनृ᳚तमने॒ना अव᳚ द्वि॒ता वरु᳚णो मा॒यी नः᳚ सात् ॥
पदपाठः (Word-by-word)
ए॒भिः । नः॒ । इ॒न्द्र॒ । अह᳚॑भिः । द॒श॒स्य॒ । दुः॒॑मि॒त्रासः᳚ । हि । क्षि॒तयः᳚ । पव᳚न्ते ।
प्रति᳚ । यत् । चष्टे᳚ । अनृ᳚तम् । अ॒ने॒नाः । अव᳚ । द्वि॒ता । वरु᳚णः । मा॒यी । नः॒ । सा॒त् ॥
प्रति᳚ । यत् । चष्टे᳚ । अनृ᳚तम् । अ॒ने॒नाः । अव᳚ । द्वि॒ता । वरु᳚णः । मा॒यी । नः॒ । सा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र दुर्मित्रासो दुष्टमित्रभूता बाधकाः क्षितयोजनाः पवन्ते अभिगच्छन्ते । हिः पूरणः पवतिर्गतिकर्मा तेभ्योधनमाच्छिद्य नोस्मभ्यं एभिः सात्विकैः अहभिरहोभिर्दशस्य देहि किं च अनेनाः एनसां निहन्ता मायी प्रज्ञावान् वरुणोयदनृतं नोस्मासु प्रतिचष्टे अभिपश्यति तदनृतम् । हे इन्द्र त्वत्प्रसादात् द्विता द्विधा अवसात् अवस्यतु विमोचयतु । तथाचयास्कः-स्यतिरुपसृष्टोविमोचनइति ॥ ४ ॥