श्रवणम्

7.28.2 समानपद
हवं᳚ त इन्द्र महि॒मा व्या᳚न॒ड्ब्रह्म॒ यत्पासि᳚ शवसि॒न्नृषी᳚णाम् ।
आ यद्वज्रं᳚ दधि॒षे हस्त᳚ उग्र घो॒रः सन्क्रत्वा᳚ जनिष्ठा॒ अषा᳚ळ्हः ॥
▶ पदपाठः (Word-by-word)
हव᳚म् । ते॒ । इ॒न्द्र॒ । म॒हि॒मा । वि । आ॒न॒ट् । ब्रह्म᳚ । यत् । पासि᳚ । श॒व॒सि॒न् । ऋषी᳚णाम् ।
आ । यत् । वज्र᳚म् । द॒धि॒षे । हस्ते᳚ । उ॒ग्र॒ । घो॒रः । सन् । क्रत्वा᳚ । ज॒नि॒ष्ठाः॒ । अषा᳚ळ्हः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शवसिन् बलवन्निन्द्र यद्यदा ऋषीणां ब्रह्म स्तोत्रं पासि रक्षसि स्तोत्रस्य रक्षणं नाम फलप्रदानं तदा ते तव महिमा हवं हवः स्तोता तं व्यानट् व्याप्नोतु । हे उग्र ओजस्विन्निन्द्र यद्यदा हस्ते पाणौ वज्रमादधिषे धारयसि तदा क्रत्वा शत्रुवधादिना कर्मणा घोरः सन् अषाह्ळः शत्रुभिरनभिभूतोजनिष्ठाः अजनिष्ठाः अभवः ॥ २ ॥