श्रवणम्

7.28.5
वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध᳚सो॒ यद्दद᳚न्नः ।
यो अर्च᳚तो॒ ब्रह्म᳚कृति॒मवि᳚ष्ठो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
वो॒चेम᳚ । इत् । इन्द्र᳚म् । म॒घ॑वा᳚नम् । ए॒न॒म् । म॒हः । रा॒यः । राध᳚सः । यत् । दद᳚त् । नः॒ ।
यः । अर्च᳚तः । ब्रह्म᳚॑कृतिम् । अवि᳚ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् इन्द्रो महो महतो राधसः संराधकस्य रायो धनस्य द्वितीयार्थे षष्ठी संराधकं महद्धनं नोस्मभ्यं ददत् प्रायच्छत् । यश्चेन्द्रः अर्चतः स्तुवतोब्रह्मकृतिं क्रयमाणं ब्रह्मस्तोत्रं अविष्ठोतिशयेन रक्षिता गन्ता भवति । तमेनं मघवानं धनवन्तमिन्द्रं वोचेमेत् स्तुवेमैव । स्पष्टमन्यत् ॥ ५ ॥

अयं सोमइन्द्रेति पंचर्चं द्वादशंसूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अयंसोमइत्यनुक्रान्तम् । व्यूह्ळेदशरात्रे नवमेहनि अयंसोमइन्द्रेति प्रउ- गशस्त्रे ऎन्द्रस्तृचः सूत्रितंच-अयंसोमइन्द्रतुभ्यंसुन्वआतु प्रब्रह्माणइति षोडशिशस्त्रे ब्रह्मन्वीरइत्येषा त्रिष्टुप् सूत्रितंच-ब्रह्मन्वीरब्रह्मकृति- जुषाणइतित्रिष्टुबिति ।