श्रवणम्

7.69.4
यु॒वोः श्रियं॒ परि॒ योषा᳚वृणीत॒ सूरो᳚ दुहि॒ता परि᳚तक्म्यायाम् ।
यद्दे᳚व॒यन्त॒मव᳚थ॒ः शची᳚भि॒ः परि᳚ घ्रं॒समो॒मना᳚ वां॒ वयो᳚ गात् ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । श्रिय᳚म् । परि᳚ । योषा᳚ । अ॒वृ॒णी॒त॒ । सूरः᳚ । दु॒हि॒ता । परि᳚॑तक्म्यायाम् ।
यत् । दे॒व॒॑यन्त᳚म् । अव᳚थः । शची᳚भिः । परि᳚ । घ्रं॒सम् । ओ॒मना᳚ । वा॒म् । वयः᳚ । गा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवोर्युवयोः श्रियं श्रयतइति श्रीः रथः तं सेवामेववा योषा सर्वदा मिश्रयन्ती योषित् सूरः सूर्यस्य रहिता पयवृणीत कदा परितक्म्यायां रात्रौ परितस्तकनवति संग्रामे यज्ञेषा गन्तव्ये किञ्च यद्यदा देवयन्तं देवकामं यजमानं यज्ञं वा शचीभिः युवयोर्गमनादिलक्षणैः कर्मभि- रवथोरक्षथः तदानीं घ्रंसं दीप्तं वयोन्नं सोमादिलक्षणं ओमना अवनेन रक्षणेन निमित्तेन वां परिगात् पर्यगात् ॥ ४ ॥