नरा᳚ गौ॒रेव᳚ वि॒द्युतं᳚ तृषा॒णास्माक᳚म॒द्य सव॒नोप᳚ यातम् ।
पु॒रु॒त्रा हि वां᳚ म॒तिभि॒र्हव᳚न्ते॒ मा वा᳚म॒न्ये नि य᳚मन्देव॒यन्त᳚ः ॥
पु॒रु॒त्रा हि वां᳚ म॒तिभि॒र्हव᳚न्ते॒ मा वा᳚म॒न्ये नि य᳚मन्देव॒यन्त᳚ः ॥
पदपाठः (Word-by-word)
नरा᳚ । गौ॒रा॑इ᳚व । वि॒॑द्युत᳚म् । तृ॒षा॒णा । अ॒स्माक᳚म् । अ॒द्य । सव᳚ना । उप᳚ । या॒त॒म् ।
पु॒रु॒॑त्रा । हि । वा॒म् । म॒ति॑भिः᳚ । हव᳚न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒॑यन्तः᳚ ॥
पु॒रु॒॑त्रा । हि । वा॒म् । म॒ति॑भिः᳚ । हव᳚न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒॑यन्तः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ गौरेव गौरामृगीव विद्युतं विशेषेणदीप्यमानं सोमं प्रति तृषाणा तृष्णायुक्तौ अद्यास्माकं सवना सवनानि उपयातं उपागच्छतम् पुरुत्र बहुषु यज्ञेषु वां युवां यजमानामतिभिः स्तुतिभिः हवन्ते हि स्तुवन्ति अतोऽन्ये यष्टारोदेवयन्तो देवं कामयमानाः वां युवां मानियमन् मनियन्तु ॥ ६ ॥