आ वां॒ रथो॒ रोद᳚सी बद्बधा॒नो हि᳚र॒ण्ययो॒ वृष᳚भिर्या॒त्वश्वै᳚ः ।
घृ॒तव᳚र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ॥
घृ॒तव᳚र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ॥
पदपाठः (Word-by-word)
आ । वा॒म् । रथः᳚ । रोद᳚सी॒ इति᳚ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः᳚ । वृष᳚॑भिः । या॒तु॒ । अश्वैः᳚ ।
घृ॒त॑व᳚र्तनिः । प॒वि॑भिः᳚ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒॑पतिः᳚ । वा॒जिनी᳚॑वान् ॥
घृ॒त॑व᳚र्तनिः । प॒वि॑भिः᳚ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒॑पतिः᳚ । वा॒जिनी᳚॑वान् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ वां रथोवृषभिः युवभिरश्वैः युक्तः सन्नायातु यज्ञमस्मदीयं कीदृशोरथः रथोविशेष्यते रोदसी द्यावापृथिव्यौ बद्बधानोबाध- मानः हिरण्ययः हिरण्मयः घृतवर्तनिः घृतमुदकं वर्तन्यां यस्य तादृशः पविभीरथनेमिभिः मधुपात्रैर्वा रुचानोदीप्यमान इषां वोह्ळा यजमानैर्दत्तानां हविषां वाहकः दातव्यानां वान्नानां वोह्ळा नृपतिः नृणां यजमानानां स्वामी वाजिनीवानन्नवान् ॥ १ ॥