यो ह॒ स्य वां᳚ रथिरा॒ वस्त᳚ उ॒स्रा रथो᳚ युजा॒नः प᳚रि॒याति᳚ व॒र्तिः ।
तेन᳚ न॒ः शं योरु॒षसो॒ व्यु᳚ष्टौ॒ न्य᳚श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥
तेन᳚ न॒ः शं योरु॒षसो॒ व्यु᳚ष्टौ॒ न्य᳚श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥
पदपाठः (Word-by-word)
यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते᳚ । उ॒स्राः । रथः᳚ । यु॒जा॒नः । प॒रि॒॑याति᳚ । व॒र्तिः ।
तेन᳚ । नः॒ । शम् । योः । उ॒षसः᳚ । वि॑उ᳚ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥
तेन᳚ । नः॒ । शम् । योः । उ॒षसः᳚ । वि॑उ᳚ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥
सायणभाष्यम् (Sayana Commentary)
योरथो हेतिपूरणः स्यः सः प्रसिद्धोरथो हे रथिरा रथिनौ मत्वर्थीयोरः वां उस्राः तेजांसि वस्ते आच्छादयति यश्च रथोयुजानः अश्वैर्युक्तः सन् वर्तिर्मार्गं यजमानगृहं वा परियाति परिगच्छति तेन रथेन हे अश्विना अश्विनौ नोस्माकमस्मिन्यज्ञे उषसोव्युष्टौ प्रातःकाले शं- शमनाय पापानां योः मिश्रणाय च सुखानां निवहतं नितरां प्राप्नुतम् ॥ ५ ॥