स्वश्वा᳚ य॒शसा या᳚तम॒र्वाग्दस्रा᳚ नि॒धिं मधु᳚मन्तं पिबाथः ।
वि वां॒ रथो᳚ व॒ध्वा॒३॒᳚ याद᳚मा॒नो॑न्ता᳚न्दि॒वो बा᳚धते वर्त॒निभ्या᳚म् ॥
वि वां॒ रथो᳚ व॒ध्वा॒३॒᳚ याद᳚मा॒नो॑न्ता᳚न्दि॒वो बा᳚धते वर्त॒निभ्या᳚म् ॥
पदपाठः (Word-by-word)
सु॒॑अश्वा᳚ । य॒शसा᳚ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा᳚ । नि॒॑धिम् । मधु᳚॑मन्तम् । पि॒बा॒थः॒ ।
वि । वा॒म् । रथः᳚ । व॒ध्वा᳚ । याद᳚मानः । अन्ता᳚न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒नि॑भ्या᳚म् ॥
वि । वा॒म् । रथः᳚ । व॒ध्वा᳚ । याद᳚मानः । अन्ता᳚न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒नि॑भ्या᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे देवौ स्वश्वा शोभनाश्वेन यशसा च अर्वागस्मदभिमुखं यातमागच्छतम् । हे दस्रा शत्रूणामुपक्षपयितारौ मधुमन्तं मधुररसोपेतं निधिं निधिवन्निहतं सोमं पिबाथः पिबतं वां युवयोरथोवध्वा सूर्यया सह यादमानोगन्तव्यान्प्रति गच्छन् गमयन्नित्यर्थः एवं कुर्वन् वर्तनिभ्यां स्वचक्राभ्यां दिवोअन्तान् पर्यन्तप्रदेशान् विबाधते शीघ्रगमनेन पीडयति ॥ ३ ॥